31 માર્ચ, 2019

संस्कृत में बातचीत करना सीखे

कृपया संस्कृत वाक्यों का अभ्यास करते रहें, रुकें नहीं, आप अवश्य ही संस्कृत में बातचीत करना सीख जाएंगे।

संस्कृत वाक्य अभ्यासः

सः शिक्षकः अस्ति।
वह शिक्षक है।

सा शिक्षिका अस्ति।
वह शिक्षिका है।

अद्य पर्यन्तम् अनेकान् छात्रान् सः पाठितवान्। ( सा पाठितवती )
आज तक उसने अनेक छात्रों को पढ़ाया है।

त्रिंशत्वर्षेभ्यः सः / सा पाठयति।
तीस वर्षों से पढ़ा रहा है / रही है ।

सः / सा बहु प्रेम्णा पाठयति।
वह बहुत प्रेम से पढ़ाता है / पढ़ाती है।

तस्य / तस्याः छात्राः अधुना बहुषु क्षेत्रेषु वृत्तिं प्राप्तवन्तः।
उसके छात्र अब बहुत से क्षेत्रों में नौकरी पा चुके हैं।

तेन / तया पाठिताः छात्राः अद्य तस्य / तस्याः गृहम् आगतवन्तः।
उसके द्वारा पढ़ाए हुए छात्र आज उसके घर आए।

तिलकं कृत्वा तस्य / तस्याः सम्मानं कृतवन्तः।
तिलक करके उसका सम्मान किया।

तस्मै / तस्यै मिष्ठान्नं दत्तवन्तः।
उसको मिठाई दी।

सः / सा छात्रेभ्यः आशीर्वादम् अयच्छत्।
उसने छात्रों को आशीर्वाद दिया।

सः / सा छात्रान् पृष्टवान् / पृष्टवती।
उसने छात्रों से पूछा।

भवन्तः / भवत्यः स्वाध्यायं कुर्वन्ति खलु ?
आप सभी स्वाध्याय करते हैं न ?

छात्राः अवदन् - " आम् "
छात्र बोले - " हाँ "

सर्वे छात्राः स्वस्तिवाचनं कृतवन्तः।
सभी छात्रों ने स्वस्तिवाचन किया।

सर्वान् शिक्षकान् शिक्षकदिवसे अहं सादरं वन्दे ।

सर्वाः शिक्षिकाः शिक्षकदिवसे अहं सादरं वन्दे।

ટિપ્પણીઓ નથી:

ટિપ્પણી પોસ્ટ કરો